अतीत प्रथमकल्ये चतुष्पदा: सिंहं राजानमकुर्वन। मत्स्या आनन्दमत्स्यं शकुनयः सुवर्णहसंम। तस्य पुनः सुवर्णराजहंसस्य दुहिता हंसपोतिका अतीव रुपवती आसीत्। स तस्यै वरमदात् यत् सा आत्मनश्चित्तरुचितं स्वामिन वृणुयात इति। हंसराजः तस्यै वरं दत्त्वा हिमवति शकुनिसंगे सन्यपतत्। नानाप्रकाराः हंसमयूरादयः शकुनिगणाः समागत्य एकस्मिन महति पाषाणतले सन्यपतत्। हंसराज: आत्मनः चित्तरुचितं स्वामिकम आगत्य वृणुयात इति दुहितरमदिदेश। सा शकुनिसंगे अवलोकनयन्ती मणिवर्णग्रीवंचित्रप्रेक्षण' मयूरं दृष्ट्वा 'अयं में स्वामिको भवतु इत्यभाषत।